________________
शोभाविधायिका अलङ्काराः,ते च शब्दार्थगतत्वेन द्विविधाः। शरीरसुषमाध्यायकत्वेन हारादीनामिव काव्यशोभा-सम्पादकत्वेन अनुप्रासादीनां अलङ्काराणां वाचकः । अलंकृतिः अलंकरणं वा अलङ्कारः इति भावप्रधानोऽलङ्कारशब्दः साहित्यशास्त्रपरपर्यायः । यथा शरीरे हारादयः संयोगसम्बन्धेन अात्मनि शौर्यादयः समवायसम्बन्धेन वर्तन्ते तथैव काव्ये शब्दार्थशरीरेऽनुप्रासोपमादयः संयोगवृत्या माधुर्यादयः रसे समयावृत्याद्यवर्तन्त इति भेदोऽवधयः ।
बहूनां प्राचार्याणां काव्यलक्षणे अलङ्काराणां प्राधान्यं वर्त्तते । श्रीभामहोद्भटवामनरुद्रटादिभिः काव्यालङ्कारनाम्ना ग्रन्थाः निमिताः । कलिकालसर्वज्ञ-श्रीमद्हेमचन्द्रसूरीश्वरेणापि अलङ्काराणां काव्ये महत्त्वं स्वीकृतमस्ति । एतेषां ग्रन्थेषु रसविचारः स्वल्प एव प्राप्यते । प्रतीयमानस्य अर्थस्य अप्रस्तुतप्रशंसा समासो मत्यादिअलङ्कारेषु अन्तर्भावो दृश्यते । पर्यायोक्ति-वक्रोक्ति-अतिशयोक्तयादिषु च ।
ततः श्रीमानन्दवर्धनाचार्येण ध्वनिः उद्भावितः । 'ध्वन्यालोके' अस्य विवेचनं प्राप्यते । प्राधान्येन उपमैवालङ्कारः। सैव भूमिकाभेदात् अनेकालङ्कारतो प्राप्नोति । यथा-प्रोक्त चित्रमीमांसायां अप्पयदीक्षितेन
साहित्यरत्नमञ्जूषा-१७१