________________
एवोत्कर्षार्थमारोपः । हेयोपादेयत्वविरोधो दूषकताबीजं, नित्योऽयं दोषः ।
पुनरुक्तम् प्रधिगतेऽर्थे पुनरभिधानं पुनरुक्तम् । अथवा "अधिगते प्राप्ते वाऽर्थे पुनरभिधानं पुनरुक्तम्" ।
अर्थप्रतीतत्त्वेऽपि पुनस्तत् प्रतिपादकत्वं पुनरुक्तत्वम् । अत्र वा शब्देन प्रतिपन्नत्वे सति पुनस्तेनैव प्रतिपादने पुनरुक्तत्वम्, किन्तु अर्थेन प्रतिपन्नस्य प्रतिपादने तु
अपुष्टत्वम् । यथा
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दु- रिन्दुः क्षीरनिधाविव ॥१॥
अत्र इन्दुरिति पुनरुक्तम् तदर्थस्य राजेन्दुरित्यत्रावगतत्वात् । " कुतस्ततोपमा यत्र पुनरुक्तः सुधाकरः ।"
तत्रोपमा सादृश्यं कुतः कस्मात् यत्र सुधाकरः चन्द्रः पुनरुक्तः व्यर्थः । अत्र कुत इति पदेनोपमाभावप्रदर्शनेन चन्द्रव्यर्थे सिद्धेऽपि पुनः " पुनरुक्तः सुधाकरः" इति वाक्योपादाने पुनरुक्तता । यद्वा "वक्त्रं केनोपमीयते " इत्यस्यावृत्तिः । तेन वक्त्रं केनोपमीयत " कुतस्तत्रोपमा " इति वाक्यद्वयं पुनरुक्तम् । न चास्यापुष्टत्वदोषेऽन्तर्भावः ।
साहित्यरत्नमञ्जूषा - १५५