________________
रूपार्थस्य निन्देन निन्दारूपार्थस्य वा स्तुतौ द्विविधो व्याहतदोषः । उदाहरणं यथा
जहि शत्रुकुलं कृत्स्नं, जय विश्वंभरामिभाम् । न च ते कोऽपि विद्वष्टा, सर्वभूतानुकम्पिनः ।
अत्र पूर्वार्द्ध शत्रुकुलं जहि उत्तरार्द्ध न कोऽपि विद्वष्टा इति परस्परविरोधः । अतः अत्र व्याहतत्वम् ।
प्रथमव्याहतस्यान्यत् उदाहरणम्
सहस्रपत्रमित्रं ते, वक्त्रं केनोपमीयते । कमलतुल्यं ते मुखं, केन वस्तुना समानी क्रियते ॥
अत्र पूर्व कमलोपमा प्रदाऽपि पुनस्तदुपमानिषेधो दशितः । अतः अत्र मिथो विरोध इति व्याहतता । कमलसादृश्येन पूर्वं मुखस्योत्कर्षः, पुनरत्रोपमाभावप्रदर्शनेन कमलसादृश्यमेवापकर्षद्योतकं प्रथमव्याहतदोषोदाहरणम् । द्वितीयम्
गोस्तनीमधुपीयूष-मस्तु लोकमनो मुदे । मदनोन्मत्तचार्वङ्गी वचो मधु मुदे मम ॥
अत्र पूर्व मधुन्युपेक्षारूपा निन्दा पुनरुत्तरत्र च मधु न
साहित्यरत्नमञ्जूषा-१५४