________________
वर्त्तनेऽप्यर्थे दूषकता स्यात् तदार्थगता दोषा इत्यर्थान्वयव्यतिरेकतयात्रार्थदोषाः ज्ञेयाः । उदाहरणं यथा
"विशन्ति हृदयं कान्ता कटाक्षाः खञ्जनत्विषः।"
खञ्जनस्य त्विङ् इव खञ्जनसमानकान्तयः कान्ता कटाक्षा हृदयं विशन्ति प्रविशन्ति इत्यर्थः । अत्र खञ्जन त्विष इति विशेषणेन विशेषस्य कान्ता कटाक्षपदस्य न किञ्चित् हृदयप्रवेशानुकूलोऽतिशय आधीतस्य इत्यपुष्टार्थमत्र । अन्यच्च 'प्रकृतानुपयोगी अपुष्टः' । यथा
अनणुरणन् मणिमेखलमविरतसिञ्चानमञ्जुमंजरीन् परिसरणमरुणचरणे रणरणकमकारणं कुरुते । अत्र वर्णसावर्ण्यमानं भवति ।
व्याहतत्वम् यत्र पूर्वापरविरोधः अनुभूयते । यदि पूर्वः अपरः पूर्वापरौ पूर्वापरायौं तयोः अर्थयोः मिथः परस्परं विरोधो व्याघातः स्यात् तदा व्याहतदोषः । “पूर्वापरार्थ विरुद्धत्वं व्याहतत्वम् ।" यथा
"उत्कर्षो वाऽपकर्षो वा प्राग् यस्यैव निगद्यते तस्यैवार्थस्तदन्यश्चेद्, व्याहतोऽर्थस्तदा भवेत् इति न्यायेन स्तुति
साहित्यरत्नमञ्जूषा-१५३ .