________________
यथा
" ताम्बूलभृतगल्लोऽयं, भल्लं जल्पति मानवः । करोति खादनं पानं, सदैव तु येन्या तथा ॥ "
अत्र 'गल्ल' 'भल्ल' शब्दौ ग्राम्यत्वबोधकौ । अन्यच्च - 'ते कटि हरते मनः' अर्थात् - तव कटि मे मनः हरते । त्रापि सहृदयवैमुख्यं जायते । अथवा 'एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम्' । अत्र 'चुम्बनं ' ग्राम्यत्व जनकं वर्त्तते, अतः ग्राम्यत्वदोषः ।
सन्दिग्धम्
अर्थद्वयभासमानेन संशयात्मकं भवति यत् तत् सन्दिग्धमिति' ।
यत्र काव्ये द्वावर्थों भवति तथा अर्थं संशयात्मकं भवति । एतादृशं पदं संदिग्धाख्यं भवति । सन्दिग्धस्य अन्यं लक्षणं द्वयर्थमिति - उपलक्षम् । तेनानेकार्थकपदोपादानेऽपि संदिग्धाख्यो दोषः स्यादेव । सं पूर्वकाद् 'दिह उपचये' धातोर्भावे क्त प्रत्ययः । अन्यच्च
अनेक कोटयवलम्बितार्थबोधकत्वं सन्दिग्धत्वम् । उदाहरणं यथा
श्रालिङ्गितस्तत्रभवान्, सम्पराये जयश्रिया । आशीः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥
,
साहित्यरत्न मञ्जूषा - १५०