________________
नेयार्थस्य द्वौ भेदौ । यत्र च रूढिप्रयोजनान्यतरहेतु विनैव लक्षणा क्रियते तत्राद्यः, द्वितीयश्च लक्षणाप्रयोगाधिक्ये भवति । यथोदाहरणम्
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषा-मप्युषां जागरित्वा । अयमपरदिशोक मुञ्चति स्रस्तहस्तः । शिशयिषुरिव पाण्डुर्लानमात्मानमिन्दु : ॥१॥
अत्र 'हस्तः' शब्दः करं बोधयति, तेन च किरणाः लक्ष्यन्ते इति नेयार्थम् ।
अन्यच्च
"हिमांशोऱ्यारादधिका, जागरे यामिकाः कराः।"
अत्र चन्द्रकिरणेभ्योऽप्यधिका कामिनी- मुक्ताहारशोभासीदिति । अत्र लक्षणाया-पाधिक्यं स्पष्टमिति ।
ग्राम्यत्वम् अविदुषो वचनं ग्राम्यम् । अन्यच्च"स ग्राम्योऽर्थोरिरंसादिः, पामरैर्यत्र कथ्यते । वैदग्ध्यवत् किमबलं, हित्वैव वनितादिषु ॥"
अत्र सहृदयवैमुख्यं दूषकताबीजं बोध्यते । अनित्योऽयं दोषः ।
साहित्यरत्नमञ्जूषा-१४६