________________
यथादातारो यदि कल्पशाखिभिरलं यथिनः किं तृणैः , सन्तश्चेदमूतेन कि यदि खलास्तत् कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया , संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ १ ॥ केचित्तु कथयति एवम्श्लेषः१ प्रसादः२ समता३, माधुर्यं४ सुकुमारता५ । अर्थव्यक्ति६ रुदारत्व-७ मोजः८ कान्तिः समाधयः१०॥
इति दशगुणान् मन्यन्ते साक्षराः, तथाऽपि तेषामुपयुक्तगुणत्रयेऽन्तर्भावान्नातिरिक्तत्वम् ।
तद्यथा___माधुर्ये कान्तिः सौकुमार्य च, प्रोजसि श्लेषः समाधिरुदारता च, तथा प्रसादे अर्थव्यक्तिः समता चेति । यद् प्रोक्तमिदम्माधुयमोजः प्रसादाख्यास्त्रयस्ते न पुनर्दश । केचिदन्तर्भवन्त्येषु दोषत्यागात् परे स्थिताः ।
समतामाह
अल्पश्चासौ समासः तस्य भावस्तत्त्वं दीर्घसमासा
साहित्यरत्नमञ्जूषा-१३८