________________
ऽन्तर्गतं वस्तु बहिर्दृश्यते, तथैव कवेरभिमतार्थस्य यत्र स्वयमेव प्रकाशनं जायते तत्र प्रसादस्य भावेति ।
काव्यप्रकाशादिरसधर्मतावादिनां मते -- अर्थो रसः तदवभासकत्वं प्रसादत्वम् । शब्दार्थनिष्ठतः त्वौपचारिकी प्रसादस्य शब्दार्थयोः रसव्यञ्जकत्वात् ।
काव्यप्रकाशे प्रसादलक्षणं त्वेतत्-
शुष्केन्धनाग्निवत् स्वच्छ जलवत्सह सैव यः । व्याप्नोत्यन्यत्प्रसादोऽसौ, सर्वत्र विहित स्थितिः ॥
अर्थात्-वस्त्रे यथा निर्मलजलं, शुष्केन्धने यथा वह्निः, तथा चेतसि योऽविलम्बेन प्रसरति स प्रसादः ।
अन्यच्चापि कथयति एवम् --
समर्पकत्वं काव्यस्य, यतः स प्रसादो गुरणो ज्ञ ेयः,
सर्वरसान् प्रति । सर्वसाधारणत्रियः ॥
अर्थात् -- यदा विकासाख्यचित्तवृत्तिसमुत्पादकः प्रसादो वीर - रौद्रादिषु चित्तं व्याप्नोति तदा शुष्केन्धनाग्निवत्, यदा च शृङ्गार-करुरणादिषु चित्तं व्याप्नोति तदा विमलजलवत् सः ज्ञेयः । श्रवणमात्रेणार्थबोधजनकैर्वर्णरचना समासैरयं व्यज्यते । रसमात्रसाधारणोऽयं गुणः ।
साहित्यरत्नमञ्जूषा - १३७