________________
रौद्ररसे
चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूणितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपारिणरुत्तसयिष्यति कचांस्तवदेवि ! भीमः ॥१॥
न पुनरेवं यथादेशः सोऽयमरातिशोरिणतजलैर्यस्मिन् हृदाः पूरिताः , क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति नो, यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः कोधनः ॥१॥
अत्र प्रोजसोऽनुकूलवर्णरचनासमासानां अभावेन न प्रोजः ।
• समस्तेषु रसेषु रचनासु च यः शुष्कन्धनं अनलः इव क्षिप्रं चित्तं व्याप्नोति सः प्रसादः। श्रुतिमात्रतः अर्थबोधकाः शब्दाः व्यञ्जकाः भवन्ति । यस्मात् कारणात् सूक्तस्य काव्यस्यान्तःस्थितोऽन्तर्गतः सकलः अर्थः सलिलस्यान्तःस्थितः सर्वोऽर्थः पदार्थ इव स्वयमेवावभासतेप्रकाशते स प्रसादः प्राचीनः कथितः । यथा स्वच्छजले
साहित्यरत्नमञ्जूषा-१३६