SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भावः समता। या वर्णाद्यवर्णादिसंख्यासामान्येन पदादितुल्यता वा समता । यथोदाहरणम् श्यामला कोमला बाला, रमरणं शरणं गता ॥ श्यामा यौवनमध्यस्था सैव श्यामला कोमला सुकुमाराङ्गी बाला नवोढा शरणं रक्षकं रमणं पतिं गता प्राप्ता। कामपीडिता भानं परित्यज्य तं प्राप्नोति इति भावः । अत्र दीर्घसमासाभावः श्यामला, कोमला, रमणं, शरणमिति पदचतुष्टये व्यक्षरत्वेन बाला गतेति पदद्वये द्वयक्षरत्वेन पदतुल्यता श्यामलेति प्रथमपादे आकारवर्णसाम्येन रमणमिति द्वितीयपादे अकारवर्ण - साम्येन च तुल्यता। समाधि लसन् प्रकाशमानो घनो निबिडश्चासौ रसश्चेति लसन्-घनरसः स एवात्मा स्वरूपं यस्य स तेन । अन्तर्विशता चेतोविशता येनार्थेन सतां सहृदयानां गात्रं शरीरम् । अङ्कुरितं रोमाञ्चितं स्यात् सोऽर्थमहिमाऽर्थचमत्कारः समाधि । “अर्थदृष्टिः समाधिः" साहित्यरत्नमञ्जूषा-१३६ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy