________________
भावः समता। या वर्णाद्यवर्णादिसंख्यासामान्येन पदादितुल्यता वा समता । यथोदाहरणम्
श्यामला कोमला बाला, रमरणं शरणं गता ॥
श्यामा यौवनमध्यस्था सैव श्यामला कोमला सुकुमाराङ्गी बाला नवोढा शरणं रक्षकं रमणं पतिं गता प्राप्ता। कामपीडिता भानं परित्यज्य तं प्राप्नोति इति भावः ।
अत्र दीर्घसमासाभावः श्यामला, कोमला, रमणं, शरणमिति पदचतुष्टये व्यक्षरत्वेन बाला गतेति पदद्वये द्वयक्षरत्वेन पदतुल्यता श्यामलेति प्रथमपादे आकारवर्णसाम्येन रमणमिति द्वितीयपादे अकारवर्ण - साम्येन च तुल्यता।
समाधि
लसन् प्रकाशमानो घनो निबिडश्चासौ रसश्चेति लसन्-घनरसः स एवात्मा स्वरूपं यस्य स तेन ।
अन्तर्विशता चेतोविशता येनार्थेन सतां सहृदयानां गात्रं शरीरम् । अङ्कुरितं रोमाञ्चितं स्यात् सोऽर्थमहिमाऽर्थचमत्कारः समाधि । “अर्थदृष्टिः समाधिः"
साहित्यरत्नमञ्जूषा-१३६ ।