SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सुभगे ! कोटिसङ्घयत्व मुपेत्य मदनाशुगैः। वसन्ते पञ्चता त्यक्ता , पञ्चतासीद् वियोगिनाम् ॥ १॥ इह कामदेवशराणां कोटिसङ्घयत्वमुपेतत्वेन निखिलविरहिजनमरणरूप - कविनिबद्धवक्तृ - प्रौढोक्तिसिद्धवस्तुना शराणां पञ्चत्वं तान् विहाय वियोगिनं गतं किमिति उत्प्रेक्षालङ्कारः प्रतीयते । (११) कविनिबद्धवक्तप्रौढोक्तिसिद्धालङ्कारव्यङ्गयवस्तु । तस्योदाहरणं यथामल्लिकामुकुले चण्डि ! भाति गुञ्जन् मधुव्रतः । प्रयाणे पञ्चबारणस्य , शङ्खमापूरयन्निव ॥१॥ ___ अस्मिन् श्लोके कविनिबद्धवक्तप्रौढोक्तिसिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः समागतः तत् कथं मानिनि ? मानं न मुञ्चसीति वस्तु व्यज्यते । (१२) कविनिबद्धवक्तृप्रौढोक्तिसिद्धालङ्कारव्यङ्गयालङ्कारः । तस्योदाहरणं यथा साहित्यरत्नमञ्जूषा-१२५ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy