________________
(८) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्गयालङ्कारः । तस्योदाहरणं यथादयिते ! रदनत्विषां मिषा
दयितेऽमी विलसन्ति केसराः । चालकवेषधारिणो मकरन्दस्पृहयालवोऽवलयः ॥१॥
अपि
श्लोकेऽस्मिन् पूर्वोत्तरार्द्धवत्तिनीभ्यामपह नुतिभ्यां न त्वं कामिनी किन्तु नलिनीति तृतीयापह नुतिः व्यज्यते इति ।
(8) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्गयवस्तु । तस्योदाहरणं यथाशिखरिणी क्व नु नाम कियच्चिरं,
किमभिधानमसावकरोत् तपः ॥ सुमुखि ! येन तवाधरपाटलं ,
दशति बिम्बफलं शुकशावकः ॥१॥ अत्र कविनिबद्धस्य कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु व्यज्यते ।
(१०) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्गयालङ्कारः । तस्योदाहरणं यथा
साहित्यरत्नमञ्जूषा-१२४