________________
अस्मिन् श्लोके भ्रमरकृतमञ्जुगुञ्जनादिवस्तुभिः स्वतः संभविभिः समीपसरोरुहोद्भवध्वननद्वारा शरदऋत्वागमनकालनैकट्यरूपं वस्तु व्यज्यते इति ।
(२) स्वतः संभविवस्तु व्यङ्गयालङ्कारः । तस्योदाहरणं यथा
----
मृद्विका रसिता सिता समशिता स्फीतं निपीतं पयः, स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तस्त्वं ब्रूहि मदीय जीव ! भवता भूयो भवे भ्राम्यतः, वीरेत्यक्षरयोरयं मधुरिमो द्गारः क्वचिल्लक्षितः ॥ १ ॥
श्लोकेऽस्मिन् स्वतः संभविना बाह्यवस्तूनामुपभोगरूपवस्तुना अनेकजन्मतपोध्यानप्रमुखप्राप्य भगवन्नाम्नोऽतिशयोक्तिरलङ्कारो व्यज्यते इति ।
( ३ ) स्वतः संभवि श्रलङ्कारव्यङ्ग्यवस्तु । तस्योदा - हरणं यथा
नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः, पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो ! यदवधि प्रवृद्धा न ते, युगान्तदहनोपमा नयनकोरशोरद्युतिः ॥ १ ॥
साहित्यरत्नमञ्जूषा - १२१