________________
श्लोकेऽस्मिन् उमादेवीवल्लभभानुदेवनपो वर्णनं प्रकरणगम्यमिति प्रथमार्थः । द्वितीयार्थलभ्य पार्वती पतिशिववर्णनमप्राकरणिकत्वाद् असमञ्जसं मा भूदिति । स्थाणुभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ इव उमावल्लभो राजते इति उपमालङ्कारो व्यङ्गयो भवति ।
यत्र अर्थशक्त्यैव व्यञ्जनं भवति । स च ध्वनिरर्थशक्त्युत्थः । अर्थशक्तिः द्विनिष्ठा भवति । वस्तुनि अलङ्कारे चेति ।
वस्त्वलङ्कारौ द्वावपि स्वतः सम्भवि, कविप्रौढोक्तिसिद्ध , कविनिबद्धवक्तृप्रौढोक्ति सिद्ध , इत्यनेन भेदेन त्रिविधौ तैर्व्यञ्जनमपि वस्त्वलङ्कारयोरेव भवतीति द्वादशप्रकारोऽर्थशक्त्युत्थः । तत् प्रकारस्याऽनुक्रमोऽत्रोदाहरणपूर्वं प्रतिपाद्यते । तथा हि
(१) स्वतः संभावि वस्तु 'व्यङ्गयवस्तु' । तस्योदाहरणं यथागुञ्जन्ति मञ्जु परितो, गत्वा घावन्ति संमुखम् ॥ प्रावर्तन्ते विवर्तन्ते, सरसीषु मधुव्रताः ॥१॥
साहित्यरत्नमञ्जूषा-१२०