________________
एतन्मूलकत्वेनैव पूर्वमुक्तं यत् व्यङ्गयार्थः क्वचिद् रसरूप इत्यादयः । तथा संलक्ष्यक्रमवाच्यस्योऽपि त्रयो भेदाः सन्ति । तथाहि - शब्दशक्त्युत्थः, अर्थशक्त्युत्थः, शब्दार्थोभयशक्त्युत्थश्च ेति ।
तत्र शब्दशक्त्युत्थो द्विविधः । वस्तुरूपव्यङ्गयः, अलङ्काररूपव्यङ्गयश्च ेति ।
अलङ्कारस्य भिन्नाभिहितत्वात् अत्र वस्तु - शब्देन अलङ्कारस्य भिन्न सर्वं ग्राह्यमिति । शब्दशक्त्यैव वस्तुव्यञ्जनं यत्र भवति तत्र वस्तुरूपशब्दशक्त्युत्थः, अलङ्कारव्यञ्जनं भवति, तत्र
अलङ्काररूपशब्दशक्त्युत्थस्यानु
क्रमेणोदाहरणं यथा
पथिक ! नात्र संस्तरमस्ति,
मनाक् प्रस्तरस्थलग्रामे ।
उन्नतपयोधरं प्रक्ष्य
*
यदि वससि तद् वसः ॥ १ ॥
1
अस्मिन् श्लोके यदि उपभोगसमर्थोऽस्ति तदा तिष्ठ इति वस्तु संस्तरादिशब्दशक्तिद्वारा व्यज्यते । दुर्गालङ्घितविग्रहो मनसिजं संमीलयँस्तेजसा प्रोद्यद् राजकलो गृहीतगरिमा विश्वग्वृतो भोगिभिः । नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिन्धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः ॥ १ ॥
,
साहित्यरत्नमञ्जूषा - ११६