________________
विहाय जहल्लक्षणयाऽर्थान्तरे परिणमति, तत्र अत्यन्त - तिरस्कृतवाच्यः लक्षणामूलो ध्वनिः । अत्र वाच्यार्थ - स्यात्यन्ततिरस्कृतत्वाद् अत्यन्ततिरस्कृतवाच्यत्वमिति ।
यथा
रविसंक्रान्त सौभाग्य
स्तुषारावृतमण्डलः ॥
निश्वासान्ध इवादर्श
चन्द्रमा न प्रकाशते ॥ १ ॥
श्लोकेऽस्मिन् अन्धत्वं सचेतने एव सम्भवतीति । तदर्थं परित्यज्य सर्वथैव अन्धशब्दो लक्षणया अप्रकाशरूपं अर्थं बोधयति । तथा अप्रकाशातिशयोऽपि व्यङ्गयः ।
अभिधा मूलत्वं नाम
यत्र वाच्यार्थस्य मुख्यार्थत्वं भवति तत्रैव प्रभिधामूलो ध्वनिर्नाम | स च द्वौ भेदौ ।
असंलक्ष्यक्रमवाच्यः,
संलक्ष्यक्रमवाच्यश्च ेति ।
तत्र असंलक्ष्यक्रमवाच्यो रसभावादिरूपः रसभावादिव्यङ्गयप्रतीतेः क्रमिकत्वेऽपि क्रमस्य दुर्बोध्यत्वात्,
असंलक्ष्यक्रमत्वमिति असंलक्ष्यक्रमवाच्यः ।
साहित्यरत्न मञ्जूषा - ११८