SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ लक्षणामूलो ध्वनिः नाम __यत्र वाच्यार्थस्याविवक्षा लक्षणया अर्थोऽवसीयते, व्यज्यते च कश्चिदर्थविशेषः सः लक्षणामूलो ध्वनिः ।" तस्य भेदौ द्विविधौ भवतः । तद्यथा-अर्थान्तरसंक्रमितवाच्यः, अत्यन्ततिरस्कृतवाच्यश्चेति । १. यत्र व्यर्थीभूतो वाच्यार्थः स्वमर्थमपरित्यज्याजहत्स्वार्थलक्षणया स्वविशेषरूपेऽर्थान्तरे संक्रामति तत्र अर्थान्तरसंक्रमितवाच्यः लक्षणामूलो ध्वनिः, यथा कदली कदली करभः करभः , करिराजकरः करिराजकरः । भुवनत्रितयेऽपि बिति तुला मिदमूरुयुगं न चमूकदृशः ॥१॥ अस्मिन् श्लोके कदलीत्यादिशब्दाः पुनरुक्तत्वाद् दोषदूषिता अभिधया कदल्यादिरूपमुख्यार्थं न कथयन्ति, किन्तु लक्षणया जाड्यादिगुणविशिष्टान्तरे संक्रमितत्वात् अर्थान्तर-संक्रमितवाच्य एव। तथा जाड्यातिशयोऽपि व्यङ्गयः । २. यत्र अनुपयुज्यमानो वाच्यार्थः स्वमुख्यार्थं सर्वथैव साहित्यरत्नमञ्जूषा-११७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy