________________
श्लोकेऽस्मिन् अधमपात्रगता रतिर्वर्ण्यते इति शृङ्गाररसाभासः। भावाभासो यथाराकासुधाकरमुखी तरलायताक्षी ,
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत् किं करोमि विदधे कथमत्र मैत्री ,
तत् स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥१॥ अस्मिन् श्लोके चिन्तारूपसंचारिभावस्याननुकूलनायकविषयतया आभासत्वम्, इति भावाभासः। एवं यत्र गुरुविषयकक्रोधो वर्त्तते तत्र रौद्ररसाभासो ज्ञेयः । सत्पात्रे भयस्तदा भयानकाभासो ज्ञेयः । अन्यत्रापि तथैव यथायोग्यमवसेयम् । यदुक्त "क्वचिच्चालङ्कारादिरूपः" । अत्र आदिपदात् वस्तुरूपव्यङ्गयार्थोऽपि ज्ञेयः । * अथ व्यङ्गयार्थरूपध्वनिकाव्यभेदाः निरूप्यन्ते *
ध्वनिकाव्यं नाम-यत्र वाच्यार्थापेक्षया व्यङ्गयार्थस्याधिकचमत्कारित्वं वर्तते । तदेव 'कविभिः उत्तम काव्यं कथ्यते, इति ।'
तत्र ध्वनिः-द्विविधो वर्तते । लक्षणामूलः अभिधामूलश्चेति ।
साहित्यरत्नमञ्जूषा-११६