________________
परता यत्र स ध्वनेः विषयो मतः । ध्वनौ रसस्य महत्त्वं पूर्वमेवोक्तम् । अत्र च विषदीकृत्य वर्णयामः
यत्र काव्ये रसादयो व्यञ्जनया प्रतीयमानाः प्रधानतया वाक्यार्थीभूता सन्तः विच्छित्तिविशेषाधायकाः भवन्ति । वाच्यं वाचकं तच्चारुत्वहेतवोऽलङ्कारा गुणाश्च प्रधानीभूतव्यङ्ग्यं च रसाधुपस्कारा एव सन्ति ।
तत्र रसस्य रसध्वनित्वं भवति, किन्तु प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्ग तु रसादयः। काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः, अर्थात् यत्र काव्ये व्यङ्गयरसाद्यपेक्षया वाच्यार्थबोध-विषयीभूतो रसादयस्तु नाति चमत्कारितयाऽङ्गभूता एव भवन्ति । तत्र रसवदादिः अलङ्कारो भवतीति भावः । तत्र च शृङ्गारे रसध्वनेः उदाहरणम्निद्राकैतविनः प्रियस्य वदने विन्यस्त-वकं वधूः , बोध-त्रास-निरुद्ध-चुम्बनरस प्याभोग लोलं स्थिता । वैलस्याद् विमुखी भवेदिति पुनः तस्याप्यनारम्भिरणः , साकाक्षप्रतियत्तिनायहृदयं यातं हु पारं रतेः ॥ ___ रसवदादिस्तु अलङ्कारो द्विविधः । शुद्धः संकीर्णश्च । तत्र शुद्धस्योदाहरणं कलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्यकृतश्री द्वयाश्रयमहाकाव्ये प्रोक्त यत्
साहित्यरत्नमञ्जूषा-६८