________________
अद्यस्ताद् भावेदितः शब्द इति किञ्चिद् विस्तारेण
विवेच्यन्ते ।
विभावानुभावव्यभिचारिसंयोगाद्
रसनिष्पत्तिः ।
अलङ्कारवादिभिस्तु विभावानुभावव्यभिचारिणां संयोगात् समुदायः रसनिष्पत्तिः । रसपदव्यवहारेति सूत्राशयं मन्वानाः विभावादयः त्रयः समुदिता रस इति रसस्वरूपं निरूपयन्ति । श्रीकाव्यप्रकाश ग्रन्थे निराकतु कथितं - " न खलु विभावानु भावव्यभिचारिण एव रसः अपि तु रसस्त्र इत्याह अस्ति क्रमः स तु लाघवान्न लक्ष्यते " इति मम्मटः ।
बहवस्तु विभावादीनां संयोगात् सम्यग्योगात् चमत्कारात् रसनिष्पत्ति:, इति सूत्रार्थवर्णयन्तो विभावादिषु यः प्रधानतया चमत्कारी, स एव रस इति वर्णयन्ति । केचित्तु - " भाव्यमानो विभावः एव रसः" इति मन्यन्ते । अन्ये केचित् - " भाव्यमानोऽनुभावस्तथा" इति वर्णयन्ति । केचित्तु - " सञ्चारी एव तादृशः तथा परिणतिः" इति वर्णयन्ति ।
रसस्य क्व ध्वनित्वम् ? कश्चालङ्कारित्वम् ? इत्युपपद्याद्य तयोरुदाहरणे प्रकाशमपि अत्र अवश्यं विधेयम् । उक्त ं वाच्यवाचकचारुत्वहेतूनां विवधात्मनाम् । रसादिसाहित्य - ७
साहित्यरत्नमञ्जूषा - ९७