________________
वस्था भावसन्धिः, शमकक्षयोर्युगपदास्वादः । भावशबलता - निरवच्छिन्नतया तेषां पूर्व पूर्वोपमर्दनाम् परेषां आस्वादः । एतादृशो रसादि प्रक्रमः । असंलक्ष्यक्रमः अङ्गित्वेन प्रधानतया भासमान सहृदयहृदयाह्लादकतया चर्वरणाविषयी भवन् ध्वनेः विवक्षितान्य परवाच्यरूपस्य आत्मा स्वरूपं व्यवस्थितः । श्री साहित्यदर्पणग्रन्थेऽपि उच्यते
विभावेनाऽनुभावेन, व्यक्तः संचारिणा तथा । रसतामेति रत्यादि स्थायीभावः सचेतसाम् ॥
सात्विकाश्चानुभावरूपत्वान्नपृथगुक्ता । रसवस्थः पटं भावः स्थापितां प्रतिपद्यते । प्रोक्तश्च
रसे सारश्वमत्कारः, सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे, सर्वत्राऽप्यद्भुतो रसः ॥
अतः साहित्ये काव्ये वा रसस्य चमत्कारित्वं सर्वत्रैव सहृदयैः अनुभूयन्ते । यदुक्तम्
“ पुण्यवन्त प्रमिण्वान्ति योगिवद् रससन्ततिम् ।” यद्यपि स्वादः काव्यार्थसंमादादात्मनः श्रानन्दसमुद्भवः, इत्युक्तदिशा रसस्यास्वादनातिरिक्तत्वम् । तथापि 'रसः स्वाद्यन्ते' इति काल्पनिकं भेदं स्वीकृत्य स्वीकृतं रसः यत् प्रधानोऽयं
साहित्यरत्नमञ्जूषा - १६