________________
इत्थं दिव्यप्रयत्नैः कवित्वसंप्राप्तिर्भवति । इत्यादयो दृष्टान्ताः जैनशास्त्रग्रन्थे मन्त्राम्नायादिकं गुरूपासनतः प्राप्यम् ।
( ५ ) जैनेतरग्रन्थेऽपि कविकालिदासस्यापि कालिकादेवीप्रसादसमुपलब्धः कवित्वशक्तिः समुद्भूता इति सुप्रसिद्धः । एवं बद्धः कविकालिदाससदृशाः स्वेष्टदेवताप्रसादसमुपलब्धाः कवयः संजाताः प्रसिद्धतमाः । अतः कवित्वसंप्राप्तेः त्रिधाप्रकाराः इतिवृत्तवृत्तान्तेषु वर्णिताः सन्ति । तेषु मन्त्राम्नायादिकं वाग्देवीप्रसादतः वा गुरूपासनतः प्राप्यमिदं प्रथमं दिव्यप्रयत्नोपलभ्यमिति ।
(२) द्वितीयः प्रकारः वर्ण्यते शास्त्रेषु यत् जन्मान्तरसंस्कारजन्यतया कवित्वशक्तः संप्राप्तिरपि जायते । सा च पूर्वजन्मनि समाराधितसम्यग्ज्ञानानां ज्ञानावरणीयादिकर्मणां क्षयोपशमकर्माभ्यां समुत्पद्यते । यथा - सुप्रसिद्धजैनाचार्य श्रीप्रार्य रक्षितसूरीश्वराणां बाल्यावस्थायां वेदोपनिषत्पारिणा देशोनदशपूर्वपर्यन्तश्रुताध्ययनसमर्थाः धीः पूर्वजन्मसंस्कारजन्यैवासीत् ।
अन्यच्च श्रीशंकरमिश्राभिधकवेरपि यच्छ्र यते तत्र पूर्वजन्मसंस्कार एव हेतुरवसीयते । तथाहि - वैशेषिकसूत्रस्यो
साहित्यरत्नमञ्जूषा - ९
ܘ