________________
(४) एवं तार्किकशिरोमणि-जैनाचार्य-श्रीसिद्धसेनदिवाकरमहाराजगुरुदेवानां श्रीवृद्धवादीनामपि वाग्देवीप्रसादः प्रसिद्धः । तद् शास्त्रेष्वपि श्रूयते । स चैवम्-वृद्धावस्थायां गृहीतदीक्षो श्रीमुकुन्दाभिधानो मुनिराजः (अपरनाम श्रीवृद्धवादी) श्रुतपाठमहाघोषैः व्योमं प्रतिध्वनयन् सोपहासं केनचिद् युवमुनिना प्रोक्तः "किमेवं त्वं मुशलं प्रफुल्लयिष्यसि ?" इति श्रुत्वा स्वोपहासं वृद्धमुनिराजः स्वचेतसि अचिन्तयत् । 'धिक मां विद्याविहीनं, मामधिकृत्यैवोपहसति लोकः,' तदहं ध्र वमेव वाग्देवीं श्रीसरस्वतीमाराधयिष्यामीति निश्चित्य मनसि आराधयामास वाग्देवीं एकविंशतिदिनपर्यन्तोपवाससाधना - मन्त्रजापादिक्रियाभिः वृद्धमुनिराजस्य कठोरसाधनां दृष्ट्वा, वाग्देवी प्रसन्ना जाता। सा उवाचसमुत्तिष्ठ प्रसन्नास्मि, पूर्यन्तां ते मनोरथाः । स्खलना न तवेच्छास्तु, तद् विधेहि निजे हितम् ॥ १॥
ततः समुत्थाय कृतपारणकः वृद्धमुनिराजः समानाय्य कस्यचित् गृहस्थस्य गृहात् मुशलञ्चैवमवोचत्अस्मादृशा अपि यदा, भारति ! त्वत् प्रसादतः । भवेयुर्वादिनः प्राज्ञा, मुशलं पुष्यतां ततः ॥ १ ॥ इत्युक्त्वा प्रासुकैर्नीरैः, सिषे च मुशलं मुनिः । सद्यः पल्लवितं पुष्पै-र्युक्तं तारैर्यथा नभः ॥ २ ॥
साहित्यरत्नमञ्जूषा-८