________________
परावर्तयतस्तस्य, निशीथे तं सरस्वती । स्वर्गङ्गास्रोतसि स्नात्य-नावृत्तासीद्रहो भुवि ॥ ३३ ॥ तन्मन्त्र-जापमाहात्म्यात्, तद्रूपा सा समाययौ । ईषद् दृष्ट्वा च तां वक्त्रं, परावर्त्तयति स्म सः ॥ ३४॥ स्वं रूपं विस्मरन्तीव, प्राह वत्स ! कथं मुखम् । विवर्तसे भवन्मन्त्र-जापात् तुष्टाहमागता ॥ ३५ ॥ वरं वृण्विति तत् प्रोक्तो, बप्पभट्टिरुवाच च । मातर्विसदृशं रूपं, कथं वीक्ष्ये तवेदृशम् ॥ ३६॥ स्वां तनु पश्य निर्वस्त्रा-मित्युक्त स्वं ददर्श सा। अहो निबिडमेतस्य, ब्रह्मव्रतमिति स्फुटम् ॥ ३७ ॥ उच्चैश्च मन्त्रमाहात्म्यं, येनाऽहं गतचेतना । ध्यायन्ती दृढतोषेण, त्वत् पुरः समुपस्थिता ॥ ३८ ॥ वरेऽपि निस्पृहे त्वत्र, दृढं चित्रातिरेकतः। गत्याऽऽगत्यो ममास्वेच्छा, त्वदीया निवतो भव ॥ ३९ ॥
तथा च तैः श्रीबप्पभट्टिसूरीश्वरैरपि अनुभूतसिद्धसारस्वतस्तवाभिधं विरचितं 'श्रीसरस्वतीस्तोत्रम् । यत् हि महाप्रभावकं त्रयोदशश्लोकात्मकसङ्ख्यकं श्रीसरस्वते: प्रसादप्रयोजकं प्रवर्तते इति ।
साहित्यरत्नमञ्जूषा-७