________________
कलिकालसर्वज्ञ - श्रीहेमचन्द्रसूरीश्वराणामपि वाग्देवताप्रसादासीत् । तद् वृत्तं यथा
तस्मिन् काले तस्मिन् समये एकदा किल 'श्रीसोमचन्द्रमुनिराजः' [श्रीहेमचन्द्रसूरीश्वरः]. सञ्जातः । सोऽपि श्रीवाग्देवताराधनाभिलाषः स्वगुर्वाज्ञया श्रीभारतदेशे सुप्रसिद्धश्रीकाश्मीरप्रदेशान् प्रति प्रस्थितः, श्रीसरस्वतीमन्त्रं स्मरतस्तस्य मार्गे एव संमिलिता भगवती भारती, एवमुक्तवती श्रीसरस्वतीदेवी। काश्मीरान्मास्म यासीस्त्वं वत्स ! मत्तोषहेतवे । त्वद्भक्तिप्रणिधानाभ्यां प्रीतास्म्यत्रापि सम्प्रति ॥ १॥ सिद्धसारस्वतो भूयाः, प्रसादेन ममाधुना । इत्युदौर्य तिरोऽधत्त देवी विद्युदिव क्षणात् ॥ २॥
(३) श्रीआमनपतिप्रतिबोधक - सिद्धसारस्वताचार्य श्रीबप्पभट्टिसूरीश्वराणामपि मन्त्राराधनजन्यश्रीवाग्देवीसरस्वतीप्रसादवर्णनमासीत् । यथा श्रीप्रभावकचरित्रग्रन्थे प्रोक्तम्
योग्यतातिशयं चास्य, ज्ञात्वा सद्गुरवस्ततः । सारस्वतं महामन्त्रं, तत्रस्थास्तस्य ते ददुः ॥ ३२ ॥
साहित्यरत्नमञ्जूषा-६