________________
पस्कारादिग्रन्थविरचितेन श्रीशंकरमिश्रेण बाल्यावस्थायां राजसभायां "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्" इति वेदसूक्तस्य समस्या स्वतीक्ष्णबुद्धिप्रतिभावैभवेन पूरिता एव । यथा
चलितश्चकितच्छन्नः, प्रयाणे तव भूपते ! । सहस्रशीर्षा पुरुषः, सहस्राक्षः सहस्रपात् ॥ १॥
एतच्च समस्यापूत्ति सम्यक् श्रुत्वा, सन्तुष्टेन नृपेण भूरिदानं दत्त्वा कथितं यत्-"अहो ! बाल्येऽप्यस्य एतादृशी प्रतिभा वर्तते ?
श्रुत्वा तदा ऊनपञ्चवर्षवयस्केन शङ्करमिश्रेण कथितम्
बालोऽहं जगदानन्द !, न मे बाला सरस्वती। अपूर्णे पञ्चमे वर्षे, वर्णयामि जगत्त्रयम् ॥ १॥ प्राग्जन्मसंस्कारात् एवं शक्यते, नान्यथा ।
(३) तृतीया हि लौकिकप्रयत्नलभ्या कवित्वशक्तिः । साऽपि व्याकरण-काव्य-कोश-छन्दःशास्त्रप्रमुखाभ्यासैः साध्या । तत्राधिकारीणां त्रिप्रकाराः सन्ति । तथाहिअल्पप्रयत्नबोध्यः, कृच्छ्रबोध्यः, कृच्छतरबोध्यश्चेति । तेषु
साहित्यरत्नमञ्जूषा-१०