________________
श्रीकुमारविहारशतकम्
देवोऽयं कलधौतजः शशिशिलास्तंभा अमी पुत्रिका सेयं चंचलकंकणा गृहमिदं नाट्यस्य दृश्यावधिः । व्याख्यासंसदियं विराममकरोन्निर्माय यां सूत्रकृत् त्रैलोक्याद्भुतमीक्षतां पुनरमुं राजेव चित्रालयम् ॥७२॥
८१
एतान् पश्यत चीनचीररचितांश्चंद्रोदयान् मौक्तिकप्रालंब: पुनरेष यस्य घटने ब्रह्मापि जिह्मायते । यक्षेद्रश्च महाबलः पुनरयं सत्यावपातो नृणां यत्रैवं द्रविणाशया विवृणुते स्त्रैणाय देवार्चकः ॥ ७३ ॥ युग्मम् ॥
अवचूर्णि :- कलधौतजः अयं देवः अमी शशिशिलास्तंभा: चंचलकंकणा सा इयं पुत्रिका दृश्यावधि नाट्यस्य इदं गृहं यां निर्माय सूत्रकृद् विराममकरोत् सेयं व्याख्यासंसद् पुना राजेवामुं चित्रालयं एतान् चीनचीररचितान् चंद्रोदयान् पश्यत यस्य घटने ब्रह्मापि जिह्मायते स एष मौक्तिकप्रालंबः पुनर्यक्षेद्रो महाबलः पुनरयं नृणां सत्यावपातः एवं अनेन प्रकारेण यत्र प्रासादे देवार्चकः स्त्रैणाय स्त्रीसमूहाय द्रविणाशया विवृणुते व्याख्यानयति । विरामो निवृत्तिः । राजा भूपः स इव । चित्रालयं । चित्रगृहं । मौक्तिकप्रालंबः मुक्ताहारः श्रीपार्श्वस्येति गम्यं । श्रीहेमाचार्य गुरवः तत्र सभ्याः कुमारपालादयः I श्रीमंत इति व्याख्यासभा । सत्यावपातः' सत्यनिश्चयः ॥७२-७३॥ युग्मम् ॥
ભાવાર્થ - ‘આ દેવ શ્રીપાર્શ્વનાથ પ્રભુ સોનાના છે,’ ‘આ સ્તંભો ચંદ્રકાંતમણિના છે,’ ‘આ પુતલી ચંચલ કંકણવાળી છે,’ ‘આ દર્શનીય વસ્તુની અવધિ રૂપ નાટ્યગૃહ છે’, ‘આ વ્યાખ્યાનશાળા છે, કે જેને રચીને સૂત્રધાર (સુથાર) વિરામ પામી ગયો છે.’ ‘વળી ત્રણ લોકમાં અદ્ભુત એવું આ ચિત્રાલય રાજાની જેમ જુઓ,’ ચીનાઈ વસ્ત્રોના
१ A
कोशपानफालाग्रहणादिस्थानं सत्यनिर्धारस्थानम् ।
...