________________
॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी
(उपजाति) प्रकृष्टशक्तावपि मुक्तवान् यो व्याख्यानदानं परसत्त्ववान् हिः । ब्रह्मैकनिष्ठामनुपालनाय पायात्स पापात् परमर्षि-प्रेमः ॥१॥ मिष्टान्नभोज्यानि फलानि यो हि आम्रप्रमुखाण्यपि भुक्तवान्न । मां जिह्मजिह्वाजडनागपाशात् पायात्स पापात् परमर्षि-प्रेमः ॥२॥ आक्रोशसोढाऽनपराधकारी स्वरक्षणे यस्य न काऽपि वाञ्छा। अहो! प्रशान्ति-नतमस्तकर्षिः पायात्स पापात् परमर्षि-प्रेमः ॥३॥ वृद्धेऽपि काये बहुरुग्निकाये न यस्य काङ्क्षा प्रतिकर्मणे हि । अन्तोऽरियोद्धा भवभीतिधर्ता पायात्स पापात् परमर्षि-प्रेमः ॥४॥