________________
मुग्धीकृता हक् चरितं निरीक्ष्य गुणैकपश्या - परिकुण्ठितापि । यन्नामतो सिध्यति वाञ्छितं द्राक् पायात्स पापात् परमर्षि-प्रेमः ॥५॥ आयुःक्षयेण च्युतयोगयागः समागतश्चैव गतश्च सेद्धं । प्राणांश्च दत्त्वा जिनशासनाय पायात्स पापात् परमर्षि-प्रेमः ॥६॥ क्वासन्नसिद्धस्य पुनो मयाप्तिः? क्व तद्गुणाब्धे-र्लवलेशलब्धि? तथापि याचे भवरागनागात् पायात्स पापात् परमर्षि-प्रेमः ॥७॥ यदीयसेवा इयमेव शिष्टा यदाशयस्य प्रतिपालनैव । श्रीहेमचन्द्रप्सितमेकमेव पायात्स पापात् परमर्षि-प्रेमः ॥८॥
% % %
W11111111111111111111
11111AMITRA