SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (१४५८ ) यस्यातिविस्मयकरान् प्रतिभापटुत्ववैदुष्यधैर्यमुनितादिगुणान् समीक्ष्य । काशीनृपः सह बुधर्विविधप्रदेश दत्ते स्म सूरिपदवी महताऽऽदरेण ॥१२॥ (त्रिमिविशेषकम्) सदीयशिष्यो विबुधो महात्मा, यः शान्तमूर्तिः प्रथितः पृथिव्याम् । आवशिलालेखसुसंग्रहं च, व्यधात् पुरातत्वसुशोधपूर्वम् ॥१३॥ अन्येऽपि येन रचिता बहवः प्रबन्धाः , सिन्धून पुनर्विहरता प्रतिबोध्य लोकान्। हिंसासुरादि विनिवारितमुग्रपापं, जीयाजयन्तविजयः स गुरुर्मदीयः ॥१४॥ (युग्मम्) इतश्च गूर्जरेष्वस्ति, राजधन्यपुरं पुरम् । उत्तुङ्गैः प्रवरैरहन्मन्दिरैः परिमण्डितम् ॥१५॥ श्रेष्ठी त्रिकमचन्द्रोऽभूत्, तद्वास्तव्यो वणिग्वरः । जिनेन्द्रदेशिते ध, सदा स्थिरदृढाशयः ॥१६॥ तस्य प्रधानदेवीति, धर्मपत्न्यजनिष्ट या। सदाचारा सुशीला च, पतिभक्तिपरायणा ॥१७॥ तयोर्मोघीतिनामास्ति, धर्मकर्मरता सुता। पुत्रौ स्तो हरगोविन्दवृद्धिचन्द्राभिधौ पुनः ॥ १८ ॥ लब्धव्युत्पत्तिको ज्येष्ठो न्यायव्याकरणादिषु । अभूदध्यापको बङ्गविश्वविद्यालये चिरम् ॥१९॥
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy