________________
(१४९०)
संपादितान्यनेकानि, तेन शास्त्राणि धीमता। कृतः प्राकृतशब्दानां, कोशोऽपूर्वश्व विश्रुतः॥२०॥ (युग्मम्) अनुजस्तु गुरोः पार्श्वे, दीक्षा भागवतीं श्रयन् । गुरुणा कृतया ख्यातो, विशालविजयाख्यया ।। २१ । गुरोः प्रसादतस्तेनालोड्य शास्त्राम्बुधि ततः । साराणि सूक्तरत्नान्यादाय ग्रन्थः कृतो ह्ययम् ॥२२॥ मनसा सावधानेन, कृतेऽत्र ग्रन्थकर्मणि । काश्चन रखलना याः स्युस्ता मे क्षाम्यन्तु सज्जनाः ।। २३ ।।
.
..
.
.
-
-
.
-.
समाप्तोऽयं सुभाषित-पद्य-रत्नाकरनामा
ग्रन्थः
-.