SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૧૫૧ મૂલમાત્રમ્ मैत्र्यादिसद्भावनया विशोधितः, संस्कारितो भावनपञ्चपञ्चकैः । भावः क्षणं चेत् क्षणदो भवेत्तदाऽनन्तं भवं नाशयते न संशयम् ॥ १६॥ लक्ष्मीः स्वयं-वरति तं सुभगं समुत्का, बुद्धिः परा स्फुरति तस्य समस्त कार्ये । कीर्तिः प्रसर्पति तरां शरदभ्र(ब्ज )शुभ्रा नित्यं जिनार्चनमनन्तफलं य ईष्टे ॥ १७॥ किमपहरति मालिन्यं ? कुरुते किं सुजनजनगुणाधिक्यम् ? । रक्षति पथि किं सततं ? सकलेहितकृत् सतां सङ्गः ॥१८॥ समस्तशास्त्रदर्शनादिदं सुनिश्चितं मया । सदा सदामता मता, हिता हि साधुसेवना ॥ १९ ॥ जिनेश्वरैर्गणीश्वरैर्मुनीश्वरैरपाकृता, रतीशरूपतुल्यरुपधारकैरियं रतिः । विरक्ततामुपास्य कर्ममर्म सन्निहत्य साध्वनन्तमन्तकान्तकृत् समन्ततोऽमृतं वृतम् ॥ २०॥ दयया सह यस्य परत्वमहोपरितः प्रणयो दुरितेन समम् । अहितस्य यतश्च हितं भवति, त्यज तं सततं किल जीववधम् ॥ २१॥
SR No.023173
Book TitleAatmbodh
Original Sutra AuthorN/A
AuthorDhurandharsuri, Pradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages162
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy