________________
૧૫ર
આત્મબોધ
गदितुमनृतमिच्छतीह कामं, कुशलमवाप्तुमहो महाविमूढः । अमृतमपि विहाय जीवितेच्छुः, पिबति विषं विनिपातकृद्विपाकम् ॥ २२॥ स्तेयमत्र निजशर्मणे जनो, दरतोऽनिशमभीप्सति त्वरम् । बन्धनं निधनमाप्नुते परं, दूरतस्त्यज सदा तदाश्वदः ॥ २३॥ बलिनो गुणिनः स्थिराशया, वररूपाः परमे पथि स्थिताः । प्रभवन्ति जनाः सदादराद्, विमलब्रह्मगुणाश्रयाद् भुवि ॥ २४॥ सुवक्रगमनाऽस्थिराद्विषमचारदुर्दर्शनाद्, ग्रहान्ननु परिग्रहानवमराशिनित्यस्थितेः । सदा सुहितमानसो हतलसन्महालालसो, बिभेति न कदाचन, श्रुतजिनागमः सत्तमः ॥ २५॥ इदं पायं पयं सरसममृतं पुण्यमयनं, सदात्मानं बोधं नयतु नयशोधं विनयतः। जनः श्रेयस्कामः प्रशमशमसद्धर्मदधुरं- .. न्धरस्याद्वादार्थं स्वहितचरितार्थं विदधतात् ॥ २६ ॥