________________
( १२५ )
चतुर्थः प्रकाशः ततोयेषांयदाजन्मनक्षत्रादिविरोधमा || चारश्चन्द्रार्यमादीनांज्योतिःशास्त्रोदितोभवेत् ॥ ९९ ॥ प्रायस्तेषां तदा कम्र्माण्यशुभानितथाविधाम् ।। लब्ध्वा विपाकसामग्री विपच्यन्ते तथातथा ॥ २०० ॥
युग्मम्
विपक्का निचतान्येवं दुःखंदद्युर्महीस्पृशाम् ॥ आधिव्याधिद्रव्यहानि कलहोत्पादनादिभिः ॥ १ ॥ यदातुयेषांजन्मर्क्षाद्यनुकूलो भवेदयम् ॥ ग्रहचारस्तदातेषांशुभंकर्म्मविपच्यते ॥ २ ॥ तथाविपकंतद्दत्तेङ्गिनांधनाङ्गनादिजम् ॥
आरोग्यतुष्टिपुष्टीष्टसमागमादिजंसुखम् ॥ ३ ॥
एवंकार्यादिलमेपितत्तद्भावगताग्रहाः ॥
सुखदुःखपरिपाकेप्राणिनांयान्तिहेतुताम् ॥ ४ ॥
तथाहभगवाञ्जीवाभिगमः स्यणियर दिणयराणंनखत्ताणंमहग्गहाणंच ॥ चारविसेसेणभवे सुहदुहविमणुस्साणं ॥ ५ ॥ अतएवमहीयांसोविवेको ज्वलचेतसः ॥ प्रयोजनंस्वलम पिरचयन्ति शुभेक्षणे ॥ ६ ॥ ज्योतिःशास्त्रानुसारेणकार्यप्रवाजनादिकम् ॥ शुभमुहूर्त्तेकुर्वन्तिततएवर्षयोपिहि ॥ ७ ॥