________________
* अवचूरिः ।
इहैव व्यतिरेकमाह - अपेक्षाऽनानन्द औत्सुक्यदुःखत्वात् । अपेक्षमाणाप्त्या तन्निवृत्तौ दोषमाह - संयोगो वियोगकारणं, तदवसानतया स्वभावत्वात् । अफलं फलमेतस्मात् संयोगात् किमित्यत आह - विनिपातपरमेतत् सांयोगिकफलं बहुमतं मोहादबुधानां पृथग्जनानां ।
निबन्धनमाह - यदतो विपर्ययो मोहादत एवाडफले फलबुद्धिः। ततो विपर्ययादनर्थोडपर्यवसितः सानुबन्धतया । एवमेष भावरिपुः परो मोहः, अत एवोक्तो भगवता तीर्थंकरेण । यथोक्तं -
अण्णाणतो रिपू अण्णो पाणिणं णेव विज्जए । एत्तो सक्किरिया तीए अणत्था विस्सतो मुहा ॥
यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन न स दुष्टः इत्याशङ्क्याह- न आकाशेन सह योग एतस्य सिद्धस्य, किमित्यत आह - नाऽऽकाशमन्यत्राऽऽधारे । अत्रैव युक्तिः - न सत्ता सदन्तरमुपैति, न चाऽन्यथाऽन्यदन्यत्र, अचिन्त्यमेतत् प्रस्तुतं । तथा निश्चयमतमेतत्, व्यवहारमतं त्वन्यथा ।।
वियोगाश्च योग इति कृत्वा नैष योगः सिद्धाऽऽकाशयोरिति भिन्नं लक्षणमेतस्याऽधिकृतयोगस्य । न चाऽत्राऽपेक्षा सिद्धस्य । कथं लोकान्ताकाशगमनमित्याह - स्वभाव एवैष तस्य अनन्त -
पञ्चमं प्रव्रज्याफलसूत्रम् ।
169