________________
परत्थनिमित्तं । तत्थ काउण निरवसेसं किच्चं विहूयरयमले सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खा-णमंतं करेइत्ति ।
॥ इइ पव्वज्जा परिपालणा सुत्तं ॥ ४ ॥
* अवचूरिः ।
एतज्ज्ञानमित्युच्यते यदेवमिष्टवस्तुतत्त्वनिरूपकम् । एत -स्मिन् ज्ञाने सति शुभयोगसिद्धिः, शुभव्यापारनिष्पत्तिर्लोकद्वये ऽपीष्टप्रवृत्तौ । किं विशिष्टेत्याह- उचितप्रतिपत्तिप्रधाना, सज्ज्ञा -नालोचनेन तत्तदनुबन्धेक्षणात् । अत्र भावः प्रवर्तकः प्रस्तुतवृत्तौ सदन्तःकरणलक्षणो न मोहः ।
अत एवाह - प्रायो विजो न विद्यतेडघिकृतप्रवृत्तौ सदुपाययोगादित्यर्थः । एतद्बीजमेवाह - निरनुबन्धाऽशुभकर्मभावेन, सानुबन्धाऽशुभकर्मणः सम्यक् प्रव्रज्याऽयोगात् । अत एवाह - आक्षिप्ताः स्वीकृता एवैते योगाः सुप्रव्रज्याव्यापाराः । कुत इत्याह - भावाराधनातस्तथा जन्मान्तरे तद्बहुमानादिप्रकारेण । तत आक्षेपात् सम्यक् प्रवर्तते नियमनिष्पादकत्वेन ।
ततः किमित्याह - निष्पादयत्यनाकुलः सन्निष्ट । एवमुक्तप्रकारेण क्रिया सुक्रिया स्यात् एकान्तनिष्कलङ्का निरतिचारतया । निष्कलङ्कार्थसाधिका मोक्षसाधिकेत्यर्थः यतस्तथा
157
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।