SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शुभानुबन्धाऽव्यवच्छेदेनोत्तरोत्तरयोगसिद्धया । ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् । स प्रव्रजितः साधयति परं प्रधानं परार्थं सत्यार्थं सम्यगविपरीतम् । तत्कुशलः परार्थसाधनं कुशलः सदा तैस्तैः प्रकारैर्बीजबीजन्यासादिभिः सानुबन्धं परार्थं । महोदयोऽसौ परपरार्थसाधनात् । एतदेवाह - बीजबीजादिस्थापनेन, बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकं शासनप्रशंसादि, एतन्यासेन । किं विशिष्टोऽयमित्याहकर्तृवीर्यादियुक्तः परपरार्थं प्रत्यवन्ध्यशुभचेष्ट एनमेवप्रति । समन्तभद्रः सर्वाकारसम्पन्नतया । सुप्रणिधानादिहेतुः क्व -चिदप्यन्यूनतया । मोहतिमिरदीपस्तदपनयनस्वभावतया । रागा -मयवैद्यस्तत् चिकित्सासमर्थयोगेन । द्वेषानलजलनिधिस्तद्विध्या -पनशक्तिभावेन । संवेगसिद्धिकरो भवति तद् हेतुयोगेन । अचिन्त्यचिन्तामणिकल्पः सत्त्वसुखहेतुतया । स प्रव्रजित एव -मुक्तनीत्या परपरार्थसाधको धर्मदानेन । कुतो हेतो रित्याह - तथा करुणादि-भावतः प्रधानभव्यतया । किमित्याह - अनेकै र्भवै विमुच्यमानः पापकर्मणा प्रवर्धमानश्च शुभभावैः संवेगादिभिरनेकभविकयाराधनया पारमार्थिकया प्राप्नोति सर्वोत्तमं भवं तीर्थङ्करादिजन्म । किं विशिष्टमित्याह- चरमं पश्चिममचरमभवहेतुं मोक्षहेतुमित्यर्थः । अविकलपरमार्थनिमित्त -मनुत्तरपुण्यसंभारभावेन । तत्र कृत्वा निरवशेषं कृत्यं यदुचितं महासत्त्वानां विधूतरजोमलः सिध्यति सामान्येनाऽणिमादि जैश्वर्यं सावचूरि-सटीकानुवादं पञ्चसूत्रम् । 158
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy