________________
अफलयोगतः, इष्टफलादन्यदफलं मोक्षात् सांसारिकमित्यर्थः, तद्योगात् । एतदेवाह - विषान्नतृप्तिफलमत्र ज्ञातम् । एतदेवाह - आवर्त एव तत्फलं, तत्त्वतस्तत्फलं विराधनाविषजन्यम् । किं विशिष्टमित्याह - अशुभानुबन्धस्तथाविराधनोत्कर्षेण ।।
एवं सफलं गुर्वबहुमानमभिधाय तद् बहुमानमाह - आयतो - गुरूबहुमानात् तीर्थङ्करसंयोगस्ततः सिद्धिरसंशयम् । यतश्चैवमत एषोऽत्र शुभोदयो गुरूबहुमानः, अयमेव विशिष्यते, प्रकृष्ट -स्तदनुबन्धः प्रधानशुभोदयानुबन्धस्तथा तथाराधनोत्कर्षेण । तथा भवव्याधिचिकित्सकोगुरूबहुमान एव हेतुफलभावात् । __न इतः सुन्दरं परं गुरूबहुमानात् । उपमाऽत्र न विद्यते गुरूबहुमाने सुन्दरत्वेन । स तावदधिकृतप्रव्रजित एवं प्रज्ञोविमलविवेकात् । एवं भावो विवेकाभावेऽपि प्रकृत्या । एवं परिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमात् माषतुषवत् । एवमप्रतिपतितः सन् वर्धमानः तेजोलेश्यया शुभभावरूपया । किमित्याह - द्वादशमासिकेन पर्याये एतत्कालमानया प्रव्रज्ययेत्यर्थः । अतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभभावरूपां, एवमाह मुनिर्भगवान् महावीरः । तथा चागमः
जेमे अज्जत्ताए समणा णिग्गंथा एते णं कस्स तेउलेसं वीतिवयंति ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे
147
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।