________________
विधानेन प्रपन्नः सन् सुक्रियां प्रव्रज्यां निरूद्धप्रमादाचारोऽसारः शुद्धभोजी संयमानुगुण्येन ।
अनेन विधिना मुच्यमानः कर्मव्याधिना निवर्तमानेष्टवियोगादिवेदनः, तथा मोहनिवृत्त्या समुपलभ्य चरणारोग्यं, सदुपलम्भेन प्रवर्धमानशुभभावः प्रवर्धमानचरणारोग्यभावः, बहुतरकर्मव्याधि विकारनिवृत्त्याः । तल्लाभनिवृत्त्या तत्प्रतिबन्धात् चरणारोग्यप्रतिबन्धविशेषात्, परीषहोपसर्गाऽभावेऽपि तत्त्वसंवेदनात् सम्यग्ज्ञानाद्धेतोः ।
कुशलाशयवृद्धया क्षायोपशमिक भाववृद्धया, स्थिराशयत्वेन चित्तस्थैर्येण हेतुना तथा धर्मोपयोगादितिकर्तव्यताबोधात् कारणात् । सदा स्तिमितो भावद्वन्द्वविरहात् प्रशान्तः । किमित्याह - तेजोलेश्यया शुभभावरूपया वर्धते गुरुञ्च बहु मन्यते भाववैद्य -कल्पम् ।
कथमित्याह - यथोचितमौचित्येन । असङ्गप्रतिपत्त्या स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यास इत्याह - निसर्गप्रवृत्तिभावेन । सांसिद्धिकप्रवृत्तित्वेन हेतुना । एषा असङ्गप्रतिपत्तिणुर्वी व्याख्याता भगवद्भिः । किमित्यत आह - भावसारात् तथौदयिकभावविरहेण विशेषतोऽसङ्गप्रतिपत्तेः ।
141
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।