________________
* अवचूरिः ।
एतदेवाऽऽह । तद्यथा, कश्चित् सत्त्वो महाव्याधिगृहीतः
कुष्ठादिगृहीतः, अनुभूतस्तद्वेदनोऽनुभूतव्याधिवेदन:, विज्ञाता स्वरूपेण वेदनायाः, न कण्डूगृहीतकण्डूयनकारिवद् विपर्यस्तः । निर्विण्णस्तत्त्वतस्तद्वेदनयेति प्रक्रमः ।
ततः सुवैद्यवचनेन सम्यक् तं व्याधिमवगम्य यथाविधानो देवतापूजादिप्रकारतः, भयात् तुच्छ - पथ्यभोजी व्याध्यानुगुण्यतः, अनेन प्रकारेण मुच्यमानो व्याधिना खसराद्यपगमेन, निवर्तमानवेदन:, कण्ड्वादेरभावात् समुपलभ्याऽऽरोग्यं, प्रवर्धमान - तद्भावः प्रवर्धमानारोग्यः, तल्लाभनिर्वृत्त्या तत्प्रतिबन्धादारोग्य प्रतिबन्धाद् हेतोः, शिराक्षारादि योगेऽपि शिरावेधक्षारपातभावेऽपि, व्याधिश -मारोग्यविज्ञानेन व्याधिशमादियदारोग्यं तदवबोधेन, इष्टनिष्पत्ते -रारोग्यनिष्पत्तेर्हेतोरनाकुलभावतया ।
तथा क्रियोपभोगेनाऽपीडितोऽव्यथितः शुभलेश्यया प्रशस्त - भावरूपया वर्धते । वैद्यञ्च बहु मन्यते, महापायनिवृत्तिहेतुरयं ममेति सम्यग्ज्ञानात् ।
I
एषदृष्टान्तोऽयमर्थोपनयः ।
एवं कर्मव्याधिगृहीतः प्राणी अनुभूतजन्मादिवेदन:, विज्ञाता दुःखस्वरूपेण जन्मादिवेदनायाः सुगुरुवचनेन हेतुनाऽनुष्ठानादिना । तमवगम्य सुगुरूकर्मव्याधिञ्च पूर्वोक्तविधानतः तृतीयसूत्रोक्तेन
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
140