SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ च । ज्ञ परिज्ञया [ परिज्ञा ] बोधमात्र रूपा, प्रत्याख्यान परिज्ञया [ परिज्ञा ] तद्गर्भक्रियारूपा । तथा आश्वास प्रकाशद्वीपं दीपं वा सम्यग् विजानातीति वर्तते । किं विशिष्टं ? इत्याह- स्पन्दनवदस्थिरादिभेदं । इह । भवाब्धावाश्वासद्वीपो मोहान्धकारे च दुःखगमने प्रकाशदीपः । तत्राऽऽद्यः स्पन्दनवानस्पन्दनर्वांश्चेत्यर्थः । इतरोऽपि स्थिरोऽस्थिरश्चाऽ -प्रतिपाती प्रतिपाती चेत्यर्थः । अयञ्च यथासङ्ख्यं मानुष्ये क्षायो - पशमिक - क्षायिक [ चारित्र ] - ज्ञानरूपश्च । उभयत्राऽऽद्यो नाऽ -क्षेपेणेष्टसिद्धये सप्रत्यपायत्वात् । चरमस्तु सिद्धये निष्प्रत्य - पायत्वात् सम्यगेतद् विजानाति । अस्पन्दनवत् स्थिरार्थमुद्यमं करोति सूत्रनीत्या । कथम् ? इत्याह - यथाशक्ति शक्त्यनुरूपं, असंभ्रान्तो भ्रान्तिरहितः, अनुत्सुक औत्सुक्यरहितः फलं प्रति । असंसक्तयोगाराधको भवति निःसपत्नश्रामण्यव्यापारकर्ता । एवमुत्त [ रोत्तर ] योगसिद्ध्या धर्मव्यापारसिद्ध्या । मुच्यते पापकर्मणा तत्र गुणविबन्धकेन । इत्येवं विशुद्धयमानः सन् आभवमाजन्म आसंसारं वा भावक्रियां निर्वाणसाधिकामारा - धयति । तथा प्रशमसुखमनुभवति तात्त्विकम् । कथम् ? इत्याह अपीडितः संयम - तपः क्रिययाऽऽ श्रवनिरोधाऽनशनादिरूपया, तथाऽबाधितस्सन् परीषहोपसर्गैः क्षुदिव्यादिभिः । - सावचूरि-सटीकानुवादं पञ्चसूत्रम् । 130
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy