________________
* अवचूरिः ।
स शुक्लपाक्षिकः पुरुषस्तौ माता - पितरौ सम्यक्त्वाद्यौषध सम्पादनेन जीवयेत् आत्यन्तिकम् । कथम् ? इत्याह - अमरणावंध्यबीजयोगेन अमरणाऽवंध्यकारणसम्यक्त्वादियोगेनेत्यर्थः ।
संभवत्येतदत एवाह-सम्भवात् पुरुषोचितमेतद् । यदुतैवं तत्त्यागः किमित्यत आह- दुष्प्रतिकारौ माता- पितरौ' इति कृत्वा, एष धर्मः, सतां सत्पुरूषाणां, भगवानत्र ज्ञातम् ।
महावीर एव परिहरन् गर्भाभिग्रहप्रतिपत्त्याऽकुशलानुबंधिनं तथा कर्मपरिणत्या माता- पितृशोकं प्रव्रज्याग्रहणोद्भवमिति । प्रस्तुतनिगमनायाह - एवमपरोपतापं सर्वथा सम्यग् प्रव्रजेदिति योगः । विधिविशेषमाह सुगुरुसमीपे नान्यत्र, पूजयित्वा भगवतो वीतरागान् तथा साधून्, तोषयित्वा विभवोचितं कृपणादीन् दुःखितसत्त्वानित्यर्थः । सुप्रयुक्तावश्यकः सन्नुचितं नेपथ्यादिना, विशुद्धनिमित्तः, समभिवासितो गुरूणा गुरुमन्त्रेण, विशुद्धयमानो -महता प्रमोदेन लोकोत्तरसम्यग्भाववन्दनादिशुद्धया प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्यो लोकोत्तरधर्मगमनेन प्रकर्षेण प्रव्रजेदित्यर्थः ।
एषा जिनाज्ञा यदुतैवं प्रव्रजितव्यं, इयञ्च महाकल्याणेति कृत्वा न विराधितव्या बुधेन, नान्यथा कर्तव्येत्यर्थः । कस्माद् ? इत्याहमहानर्थभयात्, सिद्धिकाङ्क्षिणा न खल्वाराधनातोऽन्यः सिद्धिपथ इति भावनीयम् ॥
॥ इति प्रव्रज्याग्रहणविधि सूत्रम् ॥
111
-
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ।