SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ * अवचूरिः । अबुध्यमानेषु माता-पित्रादिषु कर्मपरिणत्या हेतुभूतया, विदध्याद् यथाशक्ति तदुपकरणमर्थजातादीत्यर्थः । आयोपायशुद्ध स्वमत्या । ततोऽन्यसंभूतिरायः कलान्तरादिरूप उपायः । किमेतदेवं कुर्याद् ? इत्याह - कृतज्ञतैवैषा वर्तते, करूणा च धर्मप्रधानजननी, जने शासनोन्नतिनिमित्तमित्यर्थः । ततोऽनुज्ञातः सन् माता-पित्रादिभिरिति प्रक्रमः । प्रतिपद्यते धर्मम् । अन्यथा एवमपि तदनुज्ञाऽभावे अनुपध एव भावत उपधायुक्तः स्याद् । उक्तञ्च - निर्माय एव भावेन मायावाँस्तु भवेत् क्वचित् । पश्येत् स्व-परयोर्यत्र सानुबन्धं हितोदयम् । एवञ्च धर्माराधनमेव हितं सर्वसत्त्वानां । तथा तथैतद् दुःस्वप्नादिकथनेन सम्पादयेद् धर्माराधनम् । सर्वथाऽ प्रतिपद्यमाना -सत्यजेत् तान् माता-पित्रादीन्, अस्थानग्लानौषधार्थत्यागज्ञातेन, ज्ञातमुदाहरणम् । एतदेवाह - तद्यथा नाम कश्चित् पुरुषः कथञ्चित् कान्तारगतः सन् माता-पितृसमेतोभार्याधुपलक्षणमेतत् । तत्प्रतिबद्धोव्रजेत् । तयोर्माता-पित्रोस्तत्र कान्तारे नियमघाती, पुरुषमात्राऽसाध्यः, सम्भवदौषधो महातङ्कः स्यात् । आतंकः सद्यो घातीरोगः । तत्राऽसौ पुरुषस्तत्प्रतिबंधात् माता-पितृप्रतिबन्धेन एवमालोच्य 'न सावचूरि-सटीकानुवादं पञ्चसूत्रम् । 102
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy