________________
भवत एतौ माता-पितरौ नियमत औषधमन्तरेण औषधभावे च संशयः ।
कदाचिद् भवतोऽपि कालसही चैतौ माता-पितरौ । तथा तेन वृत्त्याछादनादिना प्रकारेण संस्थाप्य संस्थाप्य तदौषधनिमित्तं स्ववृत्तिनिमित्तं च त्यजन् साधुः शोभनः । कथम् ? इत्याह - एष त्यागो ऽ त्यागः संयोगफलत्वात्, अत्याग एव त्यागो वियोगफल -त्वात् । यदि नामैवं ततः किम् ? इत्याह- फलमत्र प्रधानं बुधानां पण्डितानां, धीरा एतद्दर्शिनो निपुणबुद्ध्या फलदर्शिनः । स पुरुषस्तौ माता-पितरौ औषधसंपादनेन जीवयेत् । सम्भवत्येतदत एवाह - सम्भवात् पुरुषोचितमेतत् यदुतेत्थं त्यागः । एष दृष्टान्तः ।
अयमर्थोपनय इत्याह - एवं शुक्लपाक्षिको महापुरुषः परित्तसंसारीत्यर्थः । संसारकान्तारपतितस्सन् माता-पितृसंगत उपलक्षणमेतद् भार्यादीनाम्, धर्मप्रतिबद्धोविहरेत् । तयोर्मातापित्रोस्तत्र संसारकान्तारे नियमविनाशकोऽप्राप्तबीजादि = पुरूषमात्राऽसाध्यः सम्भवत्सम्यक्त्वाद्यौषधो मरणादिविपाकः कर्मात -ङ्कः स्यात् ।
तत्राऽसौ शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धाद्धेतो रेवं समालोच्य - ‘विनश्यत एतौ माता-पितरौ अवश्यं सम्यक्त्वाद्यौ -षधविरहेण । तत् संपादने सम्यक्त्वाद्यौषधसम्पादने विभाषा, कदाचित् संपादयितुं शक्यते कदाचिन्न, इत्येवं रूपौ कालसहौ
103
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ।