SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல മഹാമിനിയർമാരാരിക്കുളം (६६) ते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पुनश्च वेण्टलिकां कुर्वन्ति-संवर्तयन्तीत्यर्थः, ततश्चानिक्षिप्तोपधय एव सूत्रपौरुषीं कुर्वन्ति । चरिमवेलायां = पादोनपौरुष्यां पात्रकाणि उद्ग्राह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तैरेव पात्रकैः श्रुत्वा = अर्थपौरुषीं कृत्वेत्यर्थः, ततो मध्याह्ने व्रजन्तीति । (ओ.नि. भा. ७९) Shrikri korikod to do dikos kodko dikyidod kondoity idoyidiyo dysibood bosdikodikod ko dos. चन्द्र. विहारदिने गच्छवासिनः साधवः कदा कथं च विहरन्ति इत्यादिविधिप्रतिपादनपरोऽयं पाठः सर्वोऽपि सुगमः । नवरमत्रोपध्यनिक्षेपणं पात्रकानिक्षेपणं च किमर्थमिति प्रश्नावकाशः, तत्र समाधानं त्विदम, प्रतिलेखितोऽप्युपधिः पात्रकाणि च यदि भूमौ स्थाप्यन्ते, तर्हि तेषु जीवसंसक्तिसम्भावना, ततश्च तद्ग्रहणोपभोगादिकाले पुनः तत्प्रतिलेखनमवश्यं कर्त्तव्यं स्यात् । इत्थं च यदि साधवः उपधि पात्रकाणि च भूमौ निक्षिपेयुः, तर्हि विहारकाले तत्सर्वं पुनः प्रतिलेखनीयं स्यात्, ततश्च पलिमन्थदोषः । तदवारणाय उपधिपात्रकाणामनिक्षेपणमत्रोक्तम् । अनिक्षेपणे तु जीवसंसक्त्यभावात्पुनःप्रतिलेखना न कर्तव्येति न पलिपन्थदोष इति । ननु विहारकालीन एवायं विधिरुत प्रतिदिनं कर्त्तव्य एष विधिरिति चेत् उत्सर्गतः प्रतिदिनं कर्त्तव्य एष विधिः, यतो हि भिक्षाटनाय गच्छता साधुनोत्सर्गत: सकलोऽप्युपधि ह्यः, ततश्च प्रतिदिनं उपधिनिक्षेपणे तु प्रतिदिनं भिक्षाकाले पुनःप्रतिलेखनरुपः पलिमन्थदोषोऽवश्यम्भावीति तत्परिहारार्थं उपध्याद्यनिक्षेपणं प्रतिदिनं कर्तव्यो विधिरवगन्तव्य इति । अपवादतस्तु भिक्षोपयोग्येवोपधिर्यदा भिक्षाटने गृह्यते, तदेतरोपधीनां कारणिकातिरिक्तोपधीनां च निक्षेपणमपि न दुष्टम् । केवलं प्रतिदिनं वारद्वयं तत्प्रतिलेखनं तु भवत्येव । तथा तत्परिभोगकालेऽपि प्रतिलेखना अवश्यं कर्तव्येति । லைலலலலலலலலலலலலலலலலலலலலலலலலல ९६ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy