________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सत्यं, किन्तु आपवादिकमेतद् वचनं नोत्सर्गेण बाध्यते । चतुर्मास्यां मासकल्पे वा न कुत्रापि रात्रौ स्त्रीगणपुरतः धर्मकथा कृता गुरुणा, केवलं विहारादर्वाग्दिने एव सा कृतेति अपवादाचरणप्रवृत्तत्वान्न ते दोषभागिनः ।
किञ्च एनां धर्मकथां गुरवः धर्मकथालब्धिसम्पन्नाः विशिष्टपरिणतिमन्तः सुविहिताः कुर्वन्ति न शेषसाधवः, तथाऽग्रतः पुरुषाणामुपवेशनमस्तीति न साक्षात्स्त्रीसम्पर्कादिदोषाः इति अवस्थायामस्यां रात्रौ सपरिजनं शय्यातरं प्रति धर्मकथायामपि न दोष इति युक्तमुत्पश्यामः ।
ननु तथाऽपि प्राग्दिने प्रातर्मध्याह्ने एव वा किमिति न क्रियते सा ? सायंकाले एव तत्करणं किंप्रयोजनमिति चेत्
श्रुणु, अग्रेतनदिनभाविविहारज्ञापनानन्तरं धर्मकथायां हि सपरिजनः शय्यातरः "अन्तिमा हीयं धर्मदेशना, न पश्चाद् गुरवोऽत्र भविष्यन्ति" इति सबहुमानं सप्रणयं श्रुणोति । ततश्च तादृशविहारज्ञापनान्तरमेव धर्मकथोचिता । विहारज्ञापनं च सायंकाल इति तदनन्तरमेवोचिता धर्मकथाऽपि सायंकाले एव कर्त्तव्यत्वेनापतितेति ।।
ननु अग्रेतनदिनभाविविहारज्ञापनमेव किमिति पूर्वदिने सायंकाले क्रियते, किमिति पूर्वदिने प्रातमध्याह्न एव वा न क्रियते, येन तदनन्तरभाविधर्मकथाऽपि तदैव स्यादिति रात्रौ स्त्रीणां पुरतो धर्मकथाकरणं नापद्यतेति चेत् न, एवं सति "गुरवोऽग्रेतनदिने यास्यन्ति" इति ज्ञात्वा स शय्यातरः तत्परिजनश्च सकलानन्या-न्व्यापारान्त्यक्त्वा गृह एव तिष्ठेत्, साध्वर्थं भोजनादि पचेत्, निर्व्यापारतयाऽन्यानपि गृहसत्कान् सावधानवशिष्टान् व्यापारान् तदैव कुर्यादिति प्राक्प्रतिपादिता दोषा तदवस्था एव भवेयुः । सायंकालानन्तरं तु सकलमपि कुटुम्बं स्वयमेव गृहे एव तिष्ठतीति तदा विहारप्रज्ञापनायां कृतायामपि तज्जन्यः कश्चिदपि सावधव्यापारो न भवेत्, रात्रौ च साधूनां भोजनाभावात् भोजनार्थं पाकाद्यारम्भोऽपि न भवेदिति दोषाभावं पर्यालोच्य रात्रौ विहारज्ञापनं अनुज्ञातम् । तदनन्तरभाविनी च धर्मकथा पूर्वोक्तकारणानिर्दोषेति साऽपि अनुज्ञातेति यथायोग्यं विभावनीयम् ।
उक्तकारणविशेषाभावेऽपि क्षुल्लककारणमवलम्ब्य वा यदि कश्चिदेतद्वचनमवलम्ब्य रात्रौ स्त्रीगणपुरतो व्याख्यानं कुर्यात्, स तु जिनाज्ञाभङ्गेन ब्रह्मगुप्तिबाधादिदोषजालेन च कर्मबन्धकारी भवेदिति न यथा तथाऽपवाद-प्रयोगोऽगीतार्थानामिष्टः ।
9000999999900000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
९५