________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
प्राचीनकाले चातुर्मासी एकादिशय्यातरनिश्रयाऽभवत्, वर्तमाने तु सा सङ्घनिश्रया । ततश्च प्राचीनकालेऽनागतपृच्छायां न कश्चिल्लाभोऽपि त्वनन्तरोदिता दोषा एव केवलमापद्यन्त । वर्तमानकाले त्वनागतपृच्छायां बहवो लाभाः । तथाहि - सकलसङ्घः स्वोपकारिगुरुविहारकाले धर्मभावनयोपस्थितो भवति, महताऽऽडम्बरेण विहारं कारयति, तत्र च ध्रुवैव शासनप्रभावना "अहो जैना उपकारिभक्तिमन्तः कृतज्ञाः धर्मनिरता" इति । तथा विहारकाले उपस्थितेन श्रावकादिगणेन विनयाचारः परिपालितो भवति । तथा वर्तमाने सङ्घान्तर्गताः श्रावकादयोऽतिबहवः, न च ते प्रतिदिनं गुरुं सम्पर्कयन्ति, ततश्च तेषां प्रज्ञापनायानगतमेव निश्चितविहारः कथ्यते । अन्यथा हि मुख्यश्रावकमात्रस्य विज्ञापनेन विहारकरणे तु अन्येषां श्रावकाणां श्रद्धादिभङ्गः स्यात् । एतान्यन्यानि वा कारणानि समाश्रित्यानागतविहारकथनमधुना प्रवृत्तमिति अनुमीयते ।
इदन्त्ववधेयम् । विहारकरणकामैर्मुनिभिः कतिचिदिनेभ्योऽर्वाग् मुख्यश्रावकगणः प्रज्ञापनीयः यदुत 'अमुकस्मिन्दिने विहारकरणाय प्रवर्ततेऽस्माकं भावना' इति । ततश्च 'ते श्रावका लेखनादिप्रकारेण सकलसङ्ख ज्ञापयन्ति न वा, शासनप्रभावनाप्रयोजकमाडम्बरं कुर्वन्ति न वा' इत्येतत्सर्वं तेषां कर्त्तव्यम् । न हि मुनीनां तत्र स्पृहोचिता । “अस्माकं विहारे बहवो जनाः समागच्छन्तु, ततश्च अस्माकं प्रभावो वर्धिष्यते, भक्तगणैश्च मीलनमनेन निमित्तेन भविष्यति, विहारनिमित्तकप्रकृष्टभोजनादि-प्रबन्धेनेष्टं मिष्टं प्राप्स्यते" इत्यादि गारवलाम्पट्यपरायणत्वे स्वजनादिसंसर्गाद्रीभवद्-हृदयत्वे च श्रमणपरिणामः कुठारक्षतद्रुम इव क्षतियुक्तः स्यात् । केवलं श्रावकोचितकृत्यज्ञापनं शासनप्रभावनाप्रयोजककृत्यविवरणं च निःस्पृहचेतसा क्रियमाणं न दुष्टमिति परिणतचेतसा विभजनीयमिति ।
ായി മുറിച്ചുമാറ്റിയിട്ടില്ലെ (६५) विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कल्लं गच्छामः । पुनश्च तत आचार्याः सपरिजनं शय्यातरं आहूय धर्मकथां कुर्वन्ति ।
(ओ.नि. १७४) Bodositodi dodkododkoshdodidoshdvoideos deos kodiyohary kojol ky-hiro s dodkos boej days
चन्द्र. ननु सूर्यास्तमयनानन्तरं सपरिजनं शय्यातरं प्रति धर्मकथाऽनुचिता, परिजनमध्ये स्त्रीगणस्य सद्भावात्, तदग्रे च रात्रौ धर्मकथायाः असामाचारीत्वादिति चेत् லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
९४