SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७०७० ०७०७०७ १७०७२ सिद्धान्त रहस्य बिन्दुः ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ் ഉദാഹര (६४) अथानागतमेव कथयन्ति अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः, तद्धि शय्यातरकुटुम्बं साधवो यास्यन्तीति विमुक्तशेषव्यापारं सत् गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत् स्वगृहजातहरितछेदं करोति तथा निर्व्यापारत्वादेव च ता रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्दनं कुर्वन्ति । तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति । प्रकृतं भोजनं छन्नं कुर्वन्ति, अप्रकटमित्यर्थः, प्रकटमेव (वा) भोजनं संयतार्थं कुर्वन्ति, तत्र चेच्छतामनिच्छतां च दोषा भवन्ति, कथं ? यदि तद्भोजनं गृह्णन्ति ततोऽशुद्धत्वात्संयमबाधा स्यात्, अथ न गृह्णन्ति ततो रोषभावं कदाचित्प्रतिपद्यते । एते दोषा अनागतकथने । (ओ.नि. १६९ ) Good Boys boys are dogs boys doped Baghitlaysi रण्डा: = चन्द्र. चातुर्मास्यनन्तरं मासकल्पानन्तरं वा यदा साधवो विहरेयुः, तदा शय्यातरमनापृच्छ्य न विहरेयुः, पृच्छाऽपि प्रभूतकालादर्वागेव न कुर्युः, दोषबाहुल्यसम्भवात् । के च ते दोषा इत्यत्राह अथानागतमेव इत्यादि सर्वं स्पष्टम् । नवरं निर्व्यापाराः स्त्रियः, क्षणिका: कार्यलीनताऽभावेन कार्यविरहितसमयकाः । नन्वेवं यद्यनागतमेव विहारपृच्छा न न्याय्या, वक्ष्यमाणग्रन्थानुसारेण क्षेत्रप्रत्युपेक्षकप्रे षणानन्तरमेव शय्यातरस्त्रे हाल्पीकरणप्रयासो विहारपूर्वदिने चाग्रे तनदिनविहारकथनं कर्त्तव्यम्, तर्हि अधुना वर्षावासानन्तरभावी विहारो निश्चितकालभावितया प्रथमत एव निगद्यते, चतुर्विधसङ्घस्य च तत्काले आमन्त्रणम दीयते, भक्ताश्च श्रावकादयस्तस्मिन्दिनेऽन्यान्सर्वान्व्यापारान् त्यक्त्वा तत्रागच्छन्ति, महताऽऽडम्बरेण साधुभिर्विह्रीयते । अत्र च प्रभूता विराधना भवत्येवेति सर्वमेतदकरणीयमेव प्राप्तम् । तथा च शैथिल्याचरणमेवैतद् यदुत साडम्बरं सकलसङ्घप्रज्ञप्तिपूर्वकं च सङ्घसाक्षिकं विहारकरणमिति चेत् न, तत्तद्द्रव्यादिसापेक्षोत्सर्गापवादपरिज्ञानविकलोऽसि । — = २७२७०४१२७० ७०५ ९३
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy