SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ർപ്പിപ്പിടിപ്പിടിപ്പിടിപ്പിച്ചിരിപ്പിടിപ്പിടിക്കുറ്റിപ്പിടിച്ചിരിയ (६७) तत्रापशकुनानाह मलिनः शरीरकर्पटैः, कुचेलो-जीर्णकर्पटः, स्नेहाभ्यक्तशरीरः, श्वा यदि वामपार्वाद् दक्षिणपाश्र्वं व्रजति कुब्जो-वक्रः, वडभो-वामनः, एतेऽप्रशस्ताः, पीवरगब्भा = आसन्नप्रसवकाला.... (ओ.नि. ८२) ຂ້າຂໍຍໍຂໍຍໍຂໍຍໍຄໍຂໍຍໍຂໍຍໍຂໍຂໍຂໍຮູ້,ຮູ້ຂໍ້ຂ້ອໍຂໍຂໍຍໍຂໍອບໍ່ຂໍອໍຣ໌ຂໍ້ອອໍຂໍຍໍຂໍຍໍຂໍ चन्द्र. विहारकाले यद्यपशकुना भवेयुः, तर्हि विघ्नसम्भावनया न निर्गन्तव्यम् । तत्र केऽपशकुना इति प्रश्नेऽपशकुनान् शकुनांश्च दर्शयत्यत्र । प्रायः सर्वं सुबोधम् । नवरं यः कश्चिद् विशेषः, सोऽत्राभिधीयते । चक्रधरे कुलालेऽपशकुने सति भ्रमणात्मकं विघ्नम् स्यात् । पाण्डुराङ्ग क्षुधा मरणं च स्यात् । तच्चनिके = श्रमणविशेषेऽपशकुने सति रुधिरपतनं स्यात् । श्यामनग्नेऽपशकुने तु ध्रुवं मरणं स्यात् । तस्मादेतादृशानामपशकुनानां प्रादुर्भावे निर्गमनं निवार्यम् । अथ शकुनाः । ___ तत्र जंबूः = पशुविशेषः, चासः = पक्षिविशेषः, मयूरः प्रसिद्धः, भारद्वाजः = पक्षिविशेषः, नकुलः = प्रसिद्धः, एतेषां यदि दर्शनमपि भवेत्, तर्हि तदेव शोभनम् । यदि चैतेषामन्यतरोऽपि कश्चित् निर्गच्छन्तं साधु प्रदक्षिणयति, तर्हि तत्साधोः सर्वसंपत्तिः स्यात्। __ अत्र केचित् “पयाहिणे सव्वसंपत्ती" इति नियुक्तिवचनं जिनप्रतिमाप्रदक्षिणायाः सर्वसंपत्करत्वबोधकं इति मन्यन्ते, तच्चाधिकारानुसारेण न सङ्गतमाभाति । यतो हि अत्र 'कस्य प्रदक्षिणा' इति न स्पष्टमुक्तम् । ततश्च 'जिनप्रतिमायाः साधुना क्रियमाणा प्रदक्षिणा' इत्यर्थोऽध्याहारादिनैव प्राप्यः, स चाध्याहारो न यथातथा कर्तुं शक्यते । तथा अनन्तरमेव जम्ब्वादीनां दर्शनस्य शकुनतयोक्तत्वात्तैः साधुं प्रति क्रियमाणा प्रदक्षिणैवात्र युक्तिसङ्गता आभाति। अपि च शकुनः स उच्यते, यः न शकुनग्राहिणा क्रियते कार्यते वा, किन्तु यः अकस्मादेव भवति । तथा च प्रतिमाप्रदक्षिणा तु साधुना स्वयं क्रियते इति सा न शकुनः, जम्ब्वादिना क्रियमाणा साधुं प्रति प्रदक्षिणा तु आकस्मिकीति सहजा सा शकुनः कथयितुं शक्यते इति जम्ब्वादिक्रियमाणैव प्रदक्षिणा सर्वसंपत्करीति युक्तः पन्थाः । ननु तर्हि किं विहारकाले जिनप्रतिमाप्रदक्षिणा न कर्त्तव्या इति चेत् क एवमाह ? 090202090900000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः ९७
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy