SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अस्माभिर्हि तस्याः शकुनत्वमेव निषिद्धं, न तु कर्त्तव्यत्वम् । जिनप्रतिमाप्रदक्षिणायाः तीर्थंकरविनयरुपत्वेन तपो रुपत्वात् तपसश्च मङ्गलत्वात्, तत्करणेन च निर्विघ्नपरिसमाप्तिसम्भवात् तत्कर्त्तव्यत्वं तु निराबाधमेवेति भावः । मङ्गलं विघ्ननिवारकं, शकुनः 'विघ्नमेव नास्ति' इति ज्ञापकः, अपशकुनस्तु "विघ्नमस्ति' इति ज्ञापक इति त्रयाणां व्यापारो विभिन्नः । शिष्टास्तु छद्मस्थत्वात् विघ्नं तदभावं वाऽजानन्तः कार्यारम्भे एव विघ्नसम्भावनया तन्निवारणाय मङ्गलं प्रदक्षिणादिरुपं कुर्वन्ति, यदि वा कार्यारम्भस्य पश्चात् अपशकुनदर्शनेन विघ्नशङ्कादाढ्याद् तन्निवारणार्थं मङ्गलं कुर्वन्तीति द्वौ विकल्पौ विघ्ननिवारणाय क्रियमाणे मङ्गले सम्भवतः । यदि वा 'श्रेयोऽर्थे ऽवश्यं मङ्गलं कर्त्तव्यम्' इति शिष्टाचारपरिपालनायाश्रितावबोधाय च विघ्नाभावनिश्चयेऽपि मङ्गलं कुर्वन्तीति । ___ इत्थं च प्रतिमाप्रदक्षिणायाः शकुनत्वाभावादेवात्र या प्रदक्षिणा प्रतिपादिता, सा जम्ब्वादिभिः स्वयं क्रियमाणा प्रदक्षिणैव शकुनतया प्रतिपादितेति निश्चितं मन्तव्यम् । यत एवं शकुनार्थिना स्वयं क्रियमाणः कार्यमाणो वा शकुनः परमार्थतः शकुन एव न भवति, तत एव चातुर्मासीप्रवेशाद्यनुष्ठाने साधुभिः पूर्णकलशादिकं कन्यागमनादिकं वा यत् कार्यते, तन्न शकुनरुपम्, परन्तु द्रव्यमङ्गलरुपमेव । द्रव्यमङ्गलं चात्र साधुभिः तत्कारापणे जीवविराधनासम्भवात् हिंसारुपभावामङ्गलेन प्रतिहतं सत् न स्वफलं प्रदातुमलं, प्रत्युत "न मया पूर्णकलशादिद्रव्यमङ्गलकारापणेन असंयम उत्पादयितव्य" इति परिणामेन तदकरणे, तादृशपरिणामस्य भावाहिंसास्वरुपत्वेन भावसंयमरुपत्वेन चोत्कृष्टभावमङ्गलत्वात् अवश्यं स्वफलदायकत्वमिति चारित्रपरिणतिमता न द्रव्यमङ्गलार्थं भावामङ्गलमुत्पादनीयम्, अपि तु भावमङ्गलार्थं द्रव्यमङ्गलोपेक्षणं यदि कर्त्तव्यं स्यात् तहि करणीयमेव । जिनप्रतिमाप्रदक्षिणा यद्यपि विनयरुपत्वेन तपोरुपत्वाद् उत्कृष्टं मङ्गलमभिधीयते । तथाऽपि यदि तदर्थं जिनालयोद्घाटनं कारापणीयं स्यात्, प्रदीपायुज्ज्वालनादिरुपा विराधना च भवेत्, प्रदक्षिणायां भूमौ सचित्तजलादिसट्टनं यदि भवेत्, तर्हि एतावद्दोषकदम्बेन क्रियमाणा जिनप्रतिमाप्रदक्षिणाऽपि परमार्थतोऽविनयत्वादतपोरुपा सती न मङ्गलं, प्रत्युत भावामङ्गलप्रयोजकत्वेनानिष्टकरीति परिणतचे तसा विभावनीयम् । न तु निश्चयनिरपेक्षव्यवहारमात्ररसिकेन भवितव्यम् । प्रस्तुतमुच्यते । तत्र नंदीतूय = वाद्यविशेषः, पूर्णस्य घटस्य दर्शनं, शङ्खशब्दः, पटहशब्दश्च । कलशः, லலலலலலலலலலலலலலலலலலலலலலலலலலலல ९८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy